वांछित मन्त्र चुनें
आर्चिक को चुनें

आ꣢ या꣣ह्यु꣡प꣢ नः सु꣣तं꣡ वाजे꣢꣯भि꣣र्मा꣡ हृ꣢णीयथाः । म꣣हा꣡ꣳ इ꣣व꣢ यु꣡व꣢जानिः ॥२२७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ याह्युप नः सुतं वाजेभिर्मा हृणीयथाः । महाꣳ इव युवजानिः ॥२२७॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । या꣣हि । उ꣡प꣢꣯ । नः꣣ । सुत꣢म् । वा꣡जे꣢꣯भिः । मा । हृ꣣णीयथाः । महा꣢न् । इ꣣व । यु꣡व꣢꣯जानिः । यु꣡व꣢꣯ । जा꣣निः ॥२२७॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 227 | (कौथोम) 3 » 1 » 4 » 5 | (रानायाणीय) 2 » 12 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा को उपासना-यज्ञ में निमन्त्रित किया जा रहा है।

पदार्थान्वयभाषाः -

हे इन्द्र परमात्मान् ! महान् आप (वाजेभिः) आध्यात्मिकबलरूप तथा योगेश्वर्यरूप उपहारों के साथ (नः) हमारे (सुतम्) प्रारम्भ किये हुए उपासना-यज्ञ में (आ याहि) आइये, (मा हृणीयथाः) रोष वा संकोच मत कीजिए, (इव) जैसे (युवजानिः) युवति पत्नीवाला (महान्) गुणों से महान् कोई पुरुष, बहुमूल्य उपहारों के साथ पत्नी-सहित दूसरों के यज्ञ में जाता है ॥५॥ इस मन्त्र में उपमालङ्कार है ॥५॥

भावार्थभाषाः -

जैसे रूपवती भार्यावाला कोई महान् पुरुष सामान्यजनों के भी निमन्त्रण को स्वीकार कर, उपहार लेकर भार्या के साथ उनके यज्ञ में जाता है, वैसे ही महान् परमात्मा भी हम तुच्छों से भी आयोजित उपासना-यज्ञ में आध्यात्मिक ऐश्वर्य का उपहार लेकर आये ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानमुपासनायज्ञे निमन्त्रयन्नाह।

पदार्थान्वयभाषाः -

हे इन्द्र परमात्मन् ! महाँस्त्वम् (वाजेभिः) वाजैः आध्यात्मिकबलरूपैर्योगैश्वर्यरूपैश्च उपहारैः सह (नः) अस्माकम् (सुतम्) प्रारब्धमुपासनायज्ञम् (आ याहि) आगच्छ, (मा हृणीयथाः) रोषं संकोचं च (मा) कार्षीः। हृणीङ् रोषणे लज्जायां च, कण्ड्वादिः। (इव) यथा (युवजानिः) युवतिः तरुणी जाया धर्मपत्नी यस्य तादृशः (महान्) गुणैर्विशालः कश्चित् पुरुषः संकोचं रोषं च विहाय वाजैः बहुमूल्यैरुपहारैः सह भार्यामादाय परेषां यज्ञं गच्छति ॥५॥२ अत्रोपमालङ्कारः।

भावार्थभाषाः -

यथा रूपवद्भार्यः कश्चिन्महान् पुरुषः सामान्यजनानामपि निमन्त्रणं स्वीकृत्योपहारानादाय भार्यया सह तेषां यज्ञं गच्छति, तथैव महानपि परमात्मा तुच्छैरप्यस्माभिरायोजिते उपासनायज्ञे आध्यात्मिकानामैश्वर्याणामुपहारं गृहीत्वा समागच्छेत् ॥५॥

टिप्पणी: १. ऋ० ८।२।१९, ‘ओ षु प्रयाहि वाजेभिर्मा हृणीथा अभ्यस्मान्’ इति तत्र पूर्वार्द्धपाठः। २. एत्य च स्तोकेन अपराधेन मा हृणीयथाः मा क्रोधं गमः, मा रोषीरित्यर्थः। महानिव युवजानिः। युवतिर्जाया यस्य स युवजानिः तरुणभार्यः इत्यर्थः। स यथा तरुण्या भार्याया अपराधेऽपि न रुष्यति, तद्वन्मा रोषीरित्यर्थः—इति वि०। स (युवजानिः) यथा जायामधिगच्छति न च तामधिक्रुध्यति तद्वत्—इति भ०। वाजेभिः अन्दीयैर्हवीरूपैरन्नैः मा हृणीयथा मा ह्रियस्व। तत्र दृष्टान्तः—यथा रूपवद्भार्योपेतः प्रभुः अन्याभिर्नापह्रियते, किन्तु तामेव युवतिं प्रत्यागच्छति तद्वत्—इति सा०।